४.३९.४४

तत्र विक्रोशतां नादो भूतानां सागरौकसाम् ।
श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम् ॥

अन्वयः

तत्र there, तत् that, बडबामुखम् burning face of Vadava, दृष्ट्वा seeing, असमर्थानाम् of the weak, विक्रोशताम् crying loudly, सागरौकसाम् dwelling in the sea, भूतानाम् of creatures, नादः sound, श्रूयते is heard.

Summary

'You can hear the sounds of helpless oceanic creatures crying loudly on seeing the burning face of Vadava.

पदच्छेदः

तत्रतत्र (अव्ययः)
विक्रोशतांविक्रोशत् (√वि-क्रुश् + शतृ, ६.३)
नादोनाद (१.१)
भूतानांभूत (६.३)
सागरौकसाम्सागरौकस् (६.३)
श्रूयतेश्रूयते (√श्रु प्र.पु. एक.)
चासमर्थानां (अव्ययः)–असमर्थ (६.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तद्तद् (२.१)
वडवामुखम्वडवामुख (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र वि क्रो तां ना दो
भू ता नां सा रौ साम्
श्रू ते चा र्था नां
दृ ष्ट्वाद्व वामु खम्