४.४०.१

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥

अन्वयः

सुग्रीवः Sugriva, महत् great, तत् that, वानरं बलम् monkey army, प्रस्थाप्य after despatching, ततः then, अभिलक्षितान् those recognised for excellence, वानरान् monkeys, दक्षिणाम् southern direction, प्रेषयामास sent forth.

M N Dutt

Then having sent away that mighty host of monkeys, Sugriva despatched to the South others competent to perform the several tasks entrusted to them.

Summary

Sugriva then sends in the southern direction another vanara army known for their excellence.

पदच्छेदः

ततःततस् (अव्ययः)
प्रस्थाप्यप्रस्थाप्य (√प्र-स्थापय् + ल्यप्)
सुग्रीवस्सुग्रीव (१.१)
तन्तद् (२.१)
महद्महत् (२.१)
वानरंवानर (२.१)
बलम्बल (२.१)
दक्षिणांदक्षिण (२.१)
प्रेषयामासप्रेषयामास (√प्र-इषय् प्र.पु. एक.)
वानरान्वानर (२.३)
अभिलक्षितान्अभिलक्षित (√अभि-लक्ष् + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः प्र स्थाप्य सु ग्री
स्तन्म द्वा रं लम्
क्षि णां प्रे या मा
वा राभिक्षि तान्