४.४०.२

नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।
पितामहसुतं चैव जाम्बवन्तं महाकपिम् ॥

पदच्छेदः

नीलम्नील (२.१)
अग्निसुतंअग्नि–सुत (२.१)
चैव (अव्ययः)–एव (अव्ययः)
हनुमन्तंहनुमन्त् (२.१)
(अव्ययः)
वानरम्वानर (२.१)
पितामहसुतंपितामह–सुत (२.१)
चैव (अव्ययः)–एव (अव्ययः)
जाम्बवन्तंजाम्बवन्त् (२.१)
महाकपिम्महत्–कपि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नीग्निसु तं चै
नु न्तं वा रम्
पि तासु तं चै
जाम्ब न्तं हा पिम्