४.४०.२७

तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने ।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥

अन्वयः

तम् that island, अतिक्रम्य after crossing, शतयोजने a hundred yojanas, समुद्रे in the sea, लक्ष्मीवान् prosperous island, सिद्धचरणसेवितः inhabited by siddhas and charanas, पुष्पितकोनाम named Pushpithaka, गिरिः mountain.

पदच्छेदः

तम्तद् (२.१)
अतिक्रम्यअतिक्रम्य (√अति-क्रम् + ल्यप्)
लक्ष्मीवान्लक्ष्मीवत् (१.१)
समुद्रेसमुद्र (७.१)
शतयोजनेशत–योजन (७.१)
गिरिःगिरि (१.१)
पुष्पितकोपुष्पितक (१.१)
नामनाम (अव्ययः)
सिद्धचारणसेवितःसिद्ध–चारण–सेवित (√सेव् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति क्रम्य क्ष्मी वा
न्स मु द्रे यो ने
गि रिः पुष्पि को ना
सिद्ध चा सेवि तः