४.४०.२९

तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।
श्वेतं राजतमेकं च सेवते यं निशाकरः ॥

अन्वयः

तस्य its, एकम् one, शृङ्गम् peak, काञ्चनम् is golden, यम् which, दिवाकरः Sun, सेवते resorts to, एकम् one, श्वेतम् white one, राजतम् silver, अयं this, निशाकरः Moon, सेवते resorts, तम् him, कृतघ्नाः ungrateful, न पश्यन्ति cannot see, नृशंसाः the mean, न not, नास्तिकाः unbelievers, न not.

Summary

'The Sun resorts to its golden peak. The Moon rests over its silver peak. Neither the ungrateful, nor the mean nor the unbelievers can behold this (phenomenon).

पदच्छेदः

तस्यैकंतद् (६.१)–एक (२.१)
काञ्चनंकाञ्चन (२.१)
शृङ्गंशृङ्ग (२.१)
सेवतेसेवते (√सेव् लट् प्र.पु. एक.)
यंयद् (२.१)
दिवाकरःदिवाकर (१.१)
श्वेतंश्वेत (२.१)
राजतम्राजत (२.१)
एकंएक (२.१)
(अव्ययः)
सेवतेसेवते (√सेव् लट् प्र.पु. एक.)
यंयद् (२.१)
निशाकरःनिशाकर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यै कं काञ्च नं शृ ङ्गं
से ते यंदि वा रः
श्वे तं रा मे कं
से ते यंनि शा रः