४.४०.४२

अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ।
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।
राजधानी यमस्यैषा कष्टेन तमसावृता ॥

अन्वयः

ततः then, पृथिव्याः the earth, अन्ते at the end, दुर्धर्षाः unassailable, स्वर्गजितः those who had conquered heaven, स्थिताः stay in, ततःपरम् beyond that place, सुदारुणः dreadful, पितृलोकः world of the deceased ancestors, वः for you, सेव्यः possible to enter, नः not.

M N Dutt

And there reside persons who have won the heavenly regions. After that are the awful regions of the ancestral manes, which you must not approach. This is the metropolis of Yama, covered by deep gloom.

Summary

'The divine people who have earned a place in heaven stay there at the end of their life on earth. Beyond, lies the dreadful world of deceased ancestors. It is not possible for you to enter that place.

पदच्छेदः

अन्तेअन्त (७.१)
पृथिव्यापृथिवी (६.१)
दुर्धर्षास्दुर्धर्ष (१.३)
तत्रतत्र (अव्ययः)
स्वर्गजितःस्वर्ग–जित् (१.३)
स्थिताःस्थित (√स्था + क्त, १.३)
ततःततस् (अव्ययः)
परंपर (२.१)
(अव्ययः)
वःत्वद् (६.३)
सेव्यःसेव्य (√सेव् + कृत्, १.१)
पितृलोकःपितृ–लोक (१.१)
सुदारुणःसु (अव्ययः)–दारुण (१.१)
राजधानीराजधानी (१.१)
यमस्यैषायम (६.१)–एतद् (१.१)
कष्टेनकष्ट (३.१)
तमसावृतातमस् (३.१)–आवृत (√आ-वृ + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
न्तेपृ थि व्या दु र्ध र्षा स्त त्र स्वर्ग
जि तःस्थि ताः तः रं वः से व्यः
पितृ लो कःसु दारु णः रा धा नी
स्यै षा ष्टे सावृ ता