४.४०.४५

यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति ।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥

अन्वयः

यः whoever, मासात् by one month, अग्रे before, निवृत्तः returns, सीता Sita, दृष्टा is seen, इति thus, वक्ष्यति tells me, सः he, मत्तुल्यविभवः he will be as rich as I am, भोगैः in luxury, सुखम् happily, विहरिष्यति will enjoy.

M N Dutt

He that, returning within a month, shall say,—I have seen Sītā,' shall pass his days in happiness, enjoying affluence like mine own and indulging all pleasures.

Summary

'He who returns in a month to announce Sita has been found will spend his life in luxury with as much prosperity as I do have.

पदच्छेदः

यस्यद् (१.१)
तुतु (अव्ययः)
मासान्मास (५.१)
निवृत्तोनिवृत्त (√नि-वृत् + क्त, १.१)
ऽग्रेअग्र (७.१)
दृष्टादृष्ट (√दृश् + क्त, १.१)
सीतेतिसीता (१.१)–इति (अव्ययः)
वक्ष्यतिवक्ष्यति (√वच् लृट् प्र.पु. एक.)
मत्तुल्यविभवोमद् (५.१)–तुल्य–विभव (१.१)
भोगैःभोग (३.३)
सुखंसुख (२.१)
तद् (१.१)
विहरिष्यतिविहरिष्यति (√वि-हृ लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु मा सान्नि वृ त्तो ऽग्रे
दृ ष्टा सी तेतिक्ष्यति
त्तुल्यवि वो भो गैः
सु खंवि रिष्यति