४.४१.१४

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये ।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ।
विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः ॥

अन्वयः

गिरिशृङ्गगताः roaming on the slopes, तोयदस्वननिस्वनाः sounding like thundering clouds, दृप्ताः proud, तृप्ताश्च satisfied, ये those, मातङ्गाः elephants, समन्ततः everywhere, तोयपूर्णे filled with water, अस्मिन् they, विशाले broad, सिंहानाम् lions', नीडानि in the dens, विचरन्ति roam about

M N Dutt

The proud elephants carried to the nests and remaining on the summits of the mountain, possessing the roar of clouds, having been gratified (with food), range around this extensive table-land filled with water.

Summary

'The proud elephants wandering on the mountain slopes, and on the vast tract filled with water would be happy trumpeting like thundering clouds. They roam in the caves of lions.

पदच्छेदः

तानितद् (१.३)
नीडानिनीड (१.३)
सिंहानांसिंह (६.३)
गिरिशृङ्गगताश्गिरि–शृङ्ग–गत (√गम् + क्त, १.३)
(अव्ययः)
येयद् (१.३)
दृप्तास्दृप्त (√दृप् + क्त, १.३)
तृप्ताश्तृप्त (√तृप् + क्त, १.३)
(अव्ययः)
मातंगास्मातंग (१.३)
तोयदस्वननिःस्वनाःतोयद–स्वन–निःस्वन (१.३)
विचरन्तिविचरन्ति (√वि-चर् लट् प्र.पु. बहु.)
विशालेविशाल (७.१)
ऽस्मिंस्इदम् (७.१)
तोयपूर्णेतोय–पूर्ण (√पृ + क्त, ७.१)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तानि नी डानि सिं हा नांगिरि शृङ्ग
ताश्च ये दृ प्ता स्तृ प्ताश्च मा ङ्गा
स्तोस्व निःस्व नाःविन्ति
वि शा ले ऽस्मिं स्तो पू र्णेन्त तः