४.४१.३५

आदित्या वसवो रुद्रा मरुतश्च दिवौकसः ।
आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥

पदच्छेदः

आदित्याआदित्य (१.३)
वसवोवसु (१.३)
रुद्रारुद्र (१.३)
मरुतश्मरुत् (१.३)
(अव्ययः)
दिवौकसःदिवौकस् (१.३)
आगम्यआगम्य (√आ-गम् + ल्यप्)
पश्चिमांपश्चिम (२.१)
संध्यांसंध्या (२.१)
मेरुम्मेरु (२.१)
उत्तमपर्वतम्उत्तम–पर्वत (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि त्या वो रु द्रा
रुश्चदि वौ सः
म्यश्चि मां सं ध्यां
मेरु मुत्तर्व तम्