४.४२.४

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥

अन्वयः

विक्रान्तां mighty, हिमशैलावतंसकाम् having Himavan as its earring, उदीचीं दिशम् in the northern direction, अनिन्दिताम् blameless, रामपत्नीम् Rama's spouse, सर्वतः all over, परिमार्गध्वम् search for.

Summary

'Look all over the northern direction adorned with mighty Himavan as its earring, for the spouse of blameless Rama

पदच्छेदः

दिशंदिश् (२.१)
ह्य्हि (अव्ययः)
उदीचींउदञ्च् (२.१)
विक्रान्तांविक्रान्त (√वि-क्रम् + क्त, २.१)
हिमशैलावतंसकाम्हिमशैल–अवतंसक (२.१)
सर्वतःसर्वतस् (अव्ययः)
परिमार्गध्वंपरिमार्गध्वम् (√परि-मार्ग् लोट् म.पु. द्वि.)
रामपत्नीम्राम–पत्नी (२.१)
अनिन्दिताम्अनिन्दित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि शंह्यु दी चीं वि क्रा न्तां
हि शै ला तं काम्
र्व तःरि मा र्ग ध्वं
रा त्नी निन्दि ताम्