४.४३.११

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥

अन्वयः

ततः then, परन्तपः scorcher of enemies, प्रीतः delighted, स्वनामाङ्कोपशोभितम् one on which his name is inscribed, अङ्गुलीयम् ring, राजपुत्र्या: to the princess, अभिज्ञानम् as a token of recognition, तस्य to him, ददौ gave.

M N Dutt

And well pleased, that subduer of enemies handed to Hanuman a ring inscribed with his name, as a sign to the king's daughter.

Summary

Rama, scorcher of enemies, gladly gave Hanuman a ring inscribed with his name as a mark of identification by princess (Sita). And said:

पदच्छेदः

ददौददौ (√दा लिट् प्र.पु. एक.)
तस्यतद् (६.१)
ततःततस् (अव्ययः)
प्रीतःप्रीत (√प्री + क्त, १.१)
स्वनामाङ्कोपशोभितम्स्व–नामन्–अङ्क–उपशोभित (√उप-शोभय् + क्त, २.१)
अङ्गुलीयम्अङ्गुलीय (२.१)
अभिज्ञानंअभिज्ञान (२.१)
राजपुत्र्याःराजपुत्री (६.१)
परंतपःपरंतप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दौस्य तः प्री तः
स्व ना मा ङ्को शोभि तम्
ङ्गु ली भि ज्ञा नं
रा पु त्र्याः रं पः