४.४४.१

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ।
शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥

अन्वयः

हरिपुङ्गवाः best of monkeys, भर्तुः king's, तत् that, उग्रशासनम् strict order, विज्ञाय having understood, मेदिनीम् the whole earth, शलभा इव like locusts, सञ्छाद्य covered, सम्प्रतस्थिरे started moving.

Summary

Having understood Sugriva's strict orders, the forces of monkeys started moving. They spread like locusts all over the earth.

पदच्छेदः

तद्तद् (२.१)
उग्रशासनंउग्र–शासन (२.१)
भर्तुर्भर्तृ (६.१)
विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
हरिपुंगवाःहरि–पुंगव (१.३)
शलभाशलभ (२.२)
इवइव (अव्ययः)
संछाद्यसंछाद्य (√सम्-छादय् + ल्यप्)
मेदिनींमेदिनी (२.१)
सम्प्रतस्थिरेसम्प्रतस्थिरे (√सम्प्र-स्था लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुग्र शा नंर्तु
र्वि ज्ञारि पुं वाः
भा सं छाद्य
मेदि नीं संप्रस्थि रे