४.४४.१४

भूतले सागरे वापि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥

पदच्छेदः

भूतलेभू–तल (७.१)
सागरेसागर (७.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
शैलेषुशैल (७.३)
(अव्ययः)
वनेषुवन (७.३)
(अव्ययः)
पातालस्यापिपाताल (६.१)–अपि (अव्ययः)
वावा (अव्ययः)
मध्येमध्य (७.१)
(अव्ययः)
गतिःगति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू ले सा रे वापि
शै लेषु नेषु
पा ता स्यापि वा ध्ये
मा च्छिद्य ते तिः