४.४४.१५

इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ ॥

M N Dutt

Thus did the apes proud of their strength, severally speak in presence of the sovereign of the monkeys.

पदच्छेदः

इत्य्इति (अव्ययः)
एकैकंएक–एक (२.१)
तदातदा (अव्ययः)
तत्रतत्र (अव्ययः)
वानरावानर (१.३)
बलदर्पिताःबल–दर्पित (√दर्पय् + क्त, १.३)
ऊचुश्ऊचुः (√वच् लिट् प्र.पु. बहु.)
(अव्ययः)
वचनंवचन (२.१)
तस्मिन्तद् (७.१)
हरिराजस्यहरि–राज (६.१)
संनिधौसंनिधि (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये कै कं दात्र
वा रार्पि ताः
चुश्च नंस्मि
न्हरि रास्य संनि धौ