४.४४.८

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥

अन्वयः

राज्ञा by the king, एवम् in that way, सम्बोधिताः having been addressed, सर्वे all, वानरयूथपाः leaders of the monkeys, स्वां स्वाम् in their respective, दिशम् direction, अभिप्रेत्य bound, त्वरिताः quickly, सम्प्रतस्थिरे departed from there.

M N Dutt

Thus despatched by the king, the monkeychiefs proceeded apace respectively towards their destined quarters.

Summary

Addressed thus by the king, all the monkeys departed quickly from there for their respective directions with all enthusiasm.

पदच्छेदः

एवंएवम् (अव्ययः)
संचोदिताःसंचोदित (√सम्-चोदय् + क्त, १.३)
सर्वेसर्व (१.३)
राज्ञाराजन् (३.१)
वानरयूथपाःवानर–यूथप (१.३)
स्वांस्व (२.१)
स्वांस्व (२.१)
दिशम्दिश् (२.१)
अभिप्रेत्यअभिप्रेत्य (√अभिप्र-इ + ल्यप्)
त्वरिताःत्वरित (१.३)
सम्प्रतस्थिरेसम्प्रतस्थिरे (√सम्प्र-स्था लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं सं चोदि ताः र्वे
रा ज्ञा वा यू पाः
स्वां स्वांदि भि प्रेत्य
त्वरि ताः संप्रस्थि रे