४.४५.९

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।
ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥

अन्वयः

ततः then, दानवर्षभम् bull among monsters वाली Vali, तम् him, हत्वा after killing, आजगाम he came, ततः then, अहम् I, भययन्त्रितः constrained with fear, गौरवात् with respect, राज्यम् kingdom, अददाम् returned.

पदच्छेदः

आजगामआजगाम (√आ-गम् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
वालीवालिन् (१.१)
हत्वाहत्वा (√हन् + क्त्वा)
तंतद् (२.१)
दानवर्षभम्दानव–ऋषभ (२.१)
ततोततस् (अव्ययः)
ऽहम्मद् (१.१)
अददांअददाम् (√दा लङ् उ.पु. )
राज्यंराज्य (२.१)
गौरवाद्गौरव (५.१)
भययन्त्रितःभय–यन्त्रित (√यन्त्रय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गा तो वा ली
त्वा तं दार्ष भम्
तोऽह दां रा ज्यं
गौ वाद्भन्त्रि तः