४.४६.१

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥

अन्वयः

कपिराजेन by the king of monkeys, व्यादिष्टाः commanded, कपियूधपाः leaders of vanara troops, यथोक्तम् as instructed, वैदेह्याः Vaidehi's, दर्शनार्थम् to look for, अञ्जसा swiftly, सर्वतः all directions, जग्मुः went.

M N Dutt

The principal monkeys, having been ordered by the monkey-king, speedily went in all directions to their destinations for the purpose of seeing Vaidehi.

Summary

The leaders of vanara troops went fast in all directions to look for Vaidehi following the instructions of the king of vanaras.

पदच्छेदः

दर्शनार्थंदर्शन–अर्थ (२.१)
तुतु (अव्ययः)
वैदेह्याःवैदेही (६.१)
सर्वतःसर्वतस् (अव्ययः)
कपियूथपाःकपि–यूथप (१.३)
व्यादिष्टाःव्यादिष्ट (√व्या-दिश् + क्त, १.३)
कपिराजेनकपि–राज (३.१)
यथोक्तंयथोक्तम् (अव्ययः)
जग्मुर्जग्मुः (√गम् लिट् प्र.पु. बहु.)
अञ्जसाअञ्जसा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्श ना र्थंतु वै दे ह्याः
र्व तःपि यू पाः
व्या दि ष्टाःपि रा जे
थो क्तंग्मुञ्ज सा