४.४६.१२

गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसंतताः ॥

अन्वयः

सर्वाः all, त्वया by your, परिकीर्तिताः mentioned, याः those, गुहाः caves, विचिताः searched, लताविततसन्तताः filled with extensive vines, महागुल्माः and huge bushes, विचिताः are searched.

Summary

'We searched for her in the caves, in places filled with extensive vines and huge bushes and in all places mentioned by you.

पदच्छेदः

गुहाश्गुहा (१.३)
(अव्ययः)
विचिताःविचित (√वि-चि + क्त, १.३)
सर्वासर्व (१.३)
यास्यद् (१.३)
त्वयात्वद् (३.१)
परिकीर्तिताःपरिकीर्तित (√परि-कीर्तय् + क्त, १.३)
विचिताश्विचित (√वि-चि + क्त, १.३)
(अव्ययः)
महागुल्मामहत्–गुल्म (१.३)
लताविततसंतताःलता–वितत (√वि-तन् + क्त)–संतत (√सम्-तन् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गु हाश्चविचि ताः र्वा
यास्त्व यारि कीर्ति ताः
विचि ताश्च हा गु ल्मा
तावि सं ताः