४.४६.११

विचिताः पर्वताः सर्वे वनानि नगराणि च ।
निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा ॥

अन्वयः

सर्वे all, पर्वताः mountains, विचिताः are searched, गहनानि inacccessible, वनानि च forests also, निम्नगाः rivers, सागरान्ताश्च in the seas, ये those, जनपदाश्च country side, सर्वे every where.

Summary

'We searched for her in the mountains, in inaccessible forests, in rivers and seas and also the countryside.

पदच्छेदः

विचिताःविचित (√वि-चि + क्त, १.३)
पर्वताःपर्वत (१.३)
सर्वेसर्व (१.३)
वनानिवन (१.३)
नगराणिनगर (१.३)
(अव्ययः)
निम्नगाःनिम्नगा (१.३)
सागरान्ताश्सागर–अन्त (१.३)
(अव्ययः)
सर्वेसर्व (१.३)
जनपदास्जनपद (१.३)
तथातथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विचि ताःर्व ताः र्वे
नानि राणि
निम्न गाः सा रा न्ताश्च
र्वे दास्त था