४.४७.१६

तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् ।
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् ॥

अन्वयः

सर्वे all, वानराः monkeys, शैलम् इव like a mountain, स्थितम् stood, घोरम् dreadful, तम् they, अपरम् another, दृष्ट्वा saw, पर्वतोपमम् like a huge mountain, तम् him, दृष्ट्वा saw, गाढम् firmly, परिहिताः stood in attention.

M N Dutt

And seeing that dreadful Asura, seated like a hill, and resembling a mountain, they all tightened their cloths,

Summary

The monkeys beheld the dreadful demon standing firmly like a huge, incomparable mountain in front of them.

पदच्छेदः

तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
वनरावनर (१.३)
घोरंघोर (२.१)
स्थितंस्थित (√स्था + क्त, २.१)
शैलम्शैल (२.१)
इवापरम्इव (अव्ययः)–अपर (२.१)
गाढंगाढम् (अव्ययः)
परिहिताःपरिहित (√परि-धा + क्त, १.३)
सर्वेसर्व (१.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तंतद् (२.१)
पर्वतोपमम्पर्वत–उपम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं दृ ष्ट्वा रा घो रं
स्थि तं शैमि वा रम्
गा ढंरिहि ताः र्वे
दृ ष्ट्वा तंर्व तो मम्