४.४७.१७

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली ।
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥

अन्वयः

सोऽपि he also, नष्टाः killed, स्थ you are, इति thus, तान् them, सर्वान् all, वानरान् monkeys, अब्रवीत् said, सङ्कृद्धः enraged, संहितम् held, मुष्टिम् the fist, उद्यम्य raising, अभ्यधावत ran towards them.

M N Dutt

And that strong one also, saying to the monkeys, Destroyed are you, and uplifting his clenched fist, rushed after them in rage.

Summary

Seeing the monkeys, the infuriated demon ran towards them, raising his fist firmly, saying, 'You are all as good as dead, now that I have caught you.'

पदच्छेदः

सोतद् (१.१)
ऽपिअपि (अव्ययः)
तान्तद् (२.३)
वानरान्वानर (२.३)
सर्वान्सर्व (२.३)
नष्टाःनष्ट (√नश् + क्त, १.३)
स्थेत्य्स्थ (√अस् लट् म.पु. द्वि.)–इति (अव्ययः)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
बलीबलिन् (१.१)
अभ्यधावतअभ्यधावत (√अभि-धाव् लङ् प्र.पु. एक.)
संक्रुद्धोसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
मुष्टिम्मुष्टि (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
संहितम्संहित (√सम्-धा + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽपि ता न्वा रा न्स र्वा
न्न ष्टाः स्थे त्यब्र वीद्ब ली
भ्य धा सं क्रु द्धो
मुष्टि मु द्यम्य संहि तम्