४.४८.२१

ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥

अन्वयः

ते they, मुहूर्तम् for a while, समाश्वस्ताः took rest, किञ्चित् a little, भग्नपरिश्रमाः frustrated, पुनरेव once again, कृत्स्नाम् entire, दक्षिणां दिशम् southern side, मार्गितुम् to search, उद्यताः decided.

M N Dutt

And their fatigue having gone off a little, the monkeys, having been refreshed for a while, again prepared to explore the whole South.

Summary

Resting for a while, the frustrated monkeys resumed their search throughout the southern direction.

पदच्छेदः

तेतद् (१.३)
मुहूर्तंमुहूर्त (२.१)
समाश्वस्ताःसमाश्वस्त (√समा-श्वस् + क्त, १.३)
किंचिद्कश्चित् (२.१)
भग्नपरिश्रमाःभग्न (√भञ्ज् + क्त)–परिश्रम (१.३)
पुनर्पुनर् (अव्ययः)
एवोद्यताःएव (अव्ययः)–उद्यत (√उत्-यम् + क्त, १.३)
कृत्स्नांकृत्स्न (२.१)
मार्गितुंमार्गितुम् (√मार्ग् + तुमुन्)
दक्षिणांदक्षिण (२.१)
दिशम्दिश् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेमु हू र्तं मा श्व स्ताः
किं चि द्भग्न रिश्र माः
पु रे वोद्य ताः कृ त्स्नां
मार्गि तुंक्षि णांदि शम्