४.४९.११

ततः पर्वतकूटाभो हनुमान्मारुतात्मजः ।
अब्रवीद्वानरान्सर्वान्कान्तार वनकोविदः ॥

अन्वयः

ततः then, पर्वतकूटाभः a being as huge as a mountain, कान्तारवनकोविदः knowledgeable of dense forests, पवनात्मजः son of the windgod, हनूमान् Hanuman, सर्वान् all, वानरान् monkeys, अब्रवीत् said:

Summary

Then Hanuman, son of the Windgod who appeared like a huge mountain and knew about forests spoke to the fellowmonkeys:

पदच्छेदः

ततःततस् (अव्ययः)
पर्वतकूटाभोपर्वत–कूट–आभ (१.१)
हनुमान्हनुमन्त् (१.१)
मारुतात्मजःमारुतात्मज (१.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वानरान्वानर (२.३)
सर्वान्सर्व (२.३)
कान्तारवनकोविदःकान्तार–वन–कोविद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःर्व कू टा भो
नु मा न्मारु तात्म जः
ब्र वी द्वा रा न्स र्वा
न्का न्ता कोवि दः