४.५.११

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥

अन्वयः

प्रभो O Lord, तत् that, त्वम् you, वानरेण by a monkey, मया सह with me, सौहार्दम् friendship, इच्छसि (इति) यत् that you are wishing, एषः that way, ममैव for myself, सत्कारः an honour, उत्तमः best, लाभश्च benefit

M N Dutt

That you, O lord, are anxious to contract friendship with me who am a monkey does me honour and is my gain.

Summary

'O Lord that you are eager to have friendship with me, who is a monkey is a great honour and is extremely beneficial to me.

पदच्छेदः

तन्तद् (१.१)
ममैवैषमद् (६.१)–एव (अव्ययः)–एतद् (१.१)
सत्कारोसत्कार (१.१)
लाभश्लाभ (१.१)
चैवोत्तमः (अव्ययः)–एव (अव्ययः)–उत्तम (१.१)
प्रभोप्रभु (८.१)
यत्यत् (अव्ययः)
त्वम्त्वद् (१.१)
इच्छसिइच्छसि (√इष् लट् म.पु. )
सौहार्दंसौहार्द (२.१)
वानरेणवानर (३.१)
मयामद् (३.१)
सहसह (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्म मै वै त्का रो
ला श्चै वोत्त मःप्र भो
त्त्व मिच्छसि सौ हा र्दं
वा रे या