४.५०.८

आत्मानमनुभावं च कस्य चैतत्तपोबलम् ।
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ॥

पदच्छेदः

आत्मानम्आत्मन् (२.१)
अनुभावंअनुभाव (२.१)
(अव्ययः)
कस्य (६.१)
चैतत् (अव्ययः)–एतद् (१.१)
तपोबलम्तपस्–बल (१.१)
अजानतांअजानत् (६.३)
नःमद् (६.३)
सर्वेषांसर्व (६.३)
सर्वम्सर्व (२.१)
आख्यातुम्आख्यातुम् (√आ-ख्या + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्मानु भा वं
स्य चैत्त पो लम्
जा तां नः र्वे षां
र्व मा ख्यातुर्हसि