४.५२.१

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।
उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥

अन्वयः

तापस्या by the hermitess, एवम् that way, धर्मसंहितम् coupled with righteousness, शुभम् auspicious, वाक्यम् words, उक्तः expressed, हनुमान् Hanuman, अनिन्दितचेष्टिताम् blameless in actions, ताम् her, वाक्यम् words, उवाच said.

M N Dutt

Thus accosted in excellent words fraught with asceticism and righteousness Hanumān spoke to that one of faultless eyes, saying.

Summary

To the auspicious words of the righteous, blameless hermitess Hanuman replied:

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
शुभंशुभ (२.१)
वाक्यंवाक्य (२.१)
तापस्यातापसी (३.१)
धर्मसंहितम्धर्म–संहित (√सम्-धा + क्त, २.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
हनुमान्हनुमन्त् (१.१)
वाक्यंवाक्य (२.१)
ताम्तद् (२.१)
अनिन्दितचेष्टिताम्अनिन्दित–चेष्टित (√चेष्ट् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तःशु भं वा क्यं
ता स्यार्म संहि तम्
वानु मा न्वा क्यं
ता निन्दि चेष्टि ताम्