४.५२.११

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।
निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥

अन्वयः

धर्मचारिणी righteous, तापसी ascetic, तत्र there, तान् सर्वान् all of them, विषमात् from the difficult situation, तस्मात् from that, निस्सृतान् those who were released, समाश्वास्य after consoling them all, इदम् these words, अब्रवीत् said.

M N Dutt

And then the pious anchoret spoke to them there. And when they had come out of the fearful den, cheering them up, she said,

Summary

The righteous hermitess released all the monkeys out of that difficult situation and said these words of consolation:

पदच्छेदः

ततस्ततस् (अव्ययः)
तान्तद् (२.३)
वानरान्वानर (२.३)
सर्वांस्सर्व (२.३)
तापसीतापसी (१.१)
धर्मचारिणीधर्म–चारिन् (१.१)
निःसृतान्निःसृत (√निः-सृ + क्त, २.३)
विषमात्विषम (५.१)
तस्मात्तद् (५.१)
समाश्वास्येदम्समाश्वास्य (√समा-श्वासय् + ल्यप्)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्ता न्वा रा न्स र्वां
स्ता सीर्म चारि णी
निःसृ तान्वि मा त्त स्मा
त्स मा श्वा स्येब्र वीत्