४.५२.२८

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥

अन्वयः

युवराजेन by heir apparent, कुमारेण by the young prince, भाषितम् talk, एतत् this, श्रुत्वा heard, सर्वे all, ते they, वानरश्रेष्ठाः best of the monkeys करुणम् kindly, वाक्यम् these words, अब्रुवन् said.

M N Dutt

Hearing the tender prince speak thus, all those principal monkeys pathetically observed,

Summary

Hearing the young heir apparent thus speaking, the best of the monkeys kindly responded:

पदच्छेदः

एतच्एतद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
कुमारेणकुमार (३.१)
युवराजेनयुवराज (३.१)
भाषितम्भाषित (√भाष् + क्त, २.१)
सर्वेसर्व (१.३)
तेतद् (१.३)
वानरश्रेष्ठाःवानर–श्रेष्ठ (१.३)
करुणंकरुण (२.१)
वाक्यम्वाक्य (२.१)
अब्रुवन्अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वाकु मा रे
यु रा जे भाषि तम्
र्वे ते वा श्रे ष्ठाः
रु णं वाक्यब्रु वन्