४.५२.३०

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥

पदच्छेदः

राघवप्रियकामार्थंराघव–प्रिय–काम–अर्थ (२.१)
घातयिष्यत्य्घातयिष्यति (√घातय् लृट् प्र.पु. एक.)
असंशयम्असंशय (२.१)
(अव्ययः)
क्षमंक्षम (१.१)
चापराद्धानां (अव्ययः)–अपराद्ध (√अप-राध् + क्त, ६.३)
गमनंगमन (१.१)
स्वामिपार्श्वतःस्वामिन्–पार्श्व (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राप्रि का मा र्थं
घा यि ष्यत्य सं यम्
क्ष मं चा रा द्धा नां
नं स्वामि पार्श्व तः