४.५३.१६

स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥

अन्वयः

पुत्रदाराणाम् about their sons and wives, स्मरन्तः while they are remembering, नित्योद्विग्नाः always anxious, बुभुक्षिताः hungry ones, दुःखशय्याभिः with inconvenient beds, खेदिताः depressed, त्वाम् you, पृष्ठतः करिष्यन्ति will leave you behind.

M N Dutt

Remembering their wives and sons, ever anxious (on account of Sugrīva, pining for domestic happiness, ad aggrieved (at their pitiable plight), they shall turn their backs upon you.

Summary

'The memory of their sons and wives will haunt these hungry monkeys. The inconvenient bed will make them so depressed that they will leave you behind.

पदच्छेदः

स्मरन्तःस्मरत् (√स्मृ + शतृ, १.३)
पुत्रदाराणांपुत्र–दार (६.३)
नित्योद्विग्नानित्य–उद्विग्न (√उत्-विज् + क्त, १.३)
बुभुक्षिताःबुभुक्षित (√बुभुक्ष् + क्त, १.३)
खेदिताखेदित (√खेदय् + क्त, १.३)
दुःखशय्याभिस्दुःख–शय्या (३.३)
त्वांत्वद् (२.१)
करिष्यन्तिकरिष्यत् (√कृ + कृत्, १.३)
पृष्ठतःपृष्ठतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्म न्तः पुत्र दा रा णां
नि त्यो द्वि ग्नाबु भुक्षि ताः
खेदि ता दुः य्याभि
स्त्वां रि ष्यन्ति पृष्ठ तः