४.५३.२१

प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।
तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥

M N Dutt

He loves your mother, and his life is for her; and she has no other son. Therefore, O Angada, go along with us.

पदच्छेदः

प्रियकामश्प्रिय–काम (१.१)
(अव्ययः)
तेतद् (१.३)
मातुस्मातृ (६.१)
तदर्थंतद्–अर्थ (१.१)
चास्य (अव्ययः)–इदम् (६.१)
जीवितम्जीवित (१.१)
तस्यापत्यंतद् (६.१)–अपत्य (१.१)
(अव्ययः)
नास्त्य् (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
अन्यत्अन्य (१.१)
तस्माद्तद् (५.१)
अङ्गदअङ्गद (८.१)
गम्यताम्गम्यताम् (√गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रि काश्च ते मातु
स्त र्थं चास्य जीवि तम्
स्या त्यं ना स्त्यन्य
त्त स्माङ्गम्य ताम्