४.५५.१६

तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥

अन्वयः

तीक्ष्णतुण्डः sharpbeaked, महास्वनः loudvoiced, गृध्रः vulture, तथा like that, अङ्गदस्य of Angada, मुखोद्गतम् came from the mouth, तत् वाक्यम् those words, श्रुत्वा after hearing, वचनम् these words, अब्रवीत् said.

M N Dutt

Hearing the words that issued from Angada's mouth, the sharp-beaked and high-toned vulture, said,

Summary

On hearing the words that came from Angada's mouth, the sharpbeaked, loudvoiced vulture (Sampati) said:

पदच्छेदः

तत्तद् (२.१)
तुतु (अव्ययः)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तदातदा (अव्ययः)
वाक्यम्वाक्य (२.१)
अङ्गदस्यअङ्गद (६.१)
मुखोद्गतम्मुख–उद्गत (√उत्-गम् + क्त, २.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचनंवचन (२.१)
गृध्रस्गृध्र (१.१)
तीक्ष्णतुण्डोतीक्ष्ण–तुण्ड (१.१)
महास्वनःमहत्–स्वन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तु श्रु त्वा दा वाक्य
ङ्गस्यमु खोद्ग तम्
ब्र वीद्व नं गृध्र
स्तीक्ष्ण तु ण्डो हास्व नः