४.५५.१९

यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥

पदच्छेदः

यवीयसोयवीयस् (६.१)
गुणज्ञस्यगुण–ज्ञ (६.१)
श्लाघनीयस्यश्लाघनीय (√श्लाघ् + अनीयर्, ६.१)
विक्रमैःविक्रम (३.३)
तद्तद् (२.१)
इच्छेयम्इच्छेयम् (√इष् विधिलिङ् उ.पु. )
अहंमद् (१.१)
श्रोतुंश्रोतुम् (√श्रु + तुमुन्)
विनाशंविनाश (२.१)
वानरर्षभाःवानर–ऋषभ (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वी सोगु ज्ञस्य
श्ला नीस्य विक्र मैः
दि च्छे हं श्रो तुं
वि ना शं वार्ष भाः