४.५६.२

ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः ।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥

अन्वयः

प्रायम् fasting unto death, उपविष्टाः seated, ते प्लवङ्गमाः those monkeys, गृध्रम् vulture, दृष्ट्वा after seeing, तदा then, नः us, सर्वान् all, भक्षयिष्यति he will eat away, रौद्रम् terribly, बुद्धिम् in their minds, चक्रुः thought .

M N Dutt

Seated for the purpose of fasting to death, the monkeys, seeing the vulture, with terror thought within themselves, he shall eat us all up.

Summary

On seeing the vulture, the monkeys fasting unto death got a terrible thought in their minds that the vulture might eat them.

पदच्छेदः

तेतद् (२.२)
प्रायम्प्राय (२.१)
उपविष्टास्उपविष्ट (√उप-विश् + क्त, १.३)
तुतु (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
गृध्रंगृध्र (२.१)
प्लवंगमाःप्लवंगम (१.३)
चक्रुर्चक्रुः (√कृ लिट् प्र.पु. बहु.)
बुद्धिंबुद्धि (२.१)
तदातदा (अव्ययः)
रौद्रांरौद्र (२.१)
सर्वान्सर्व (२.३)
नोमद् (२.३)
भक्षयिष्यतिभक्षयिष्यति (√भक्षय् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते प्रामु वि ष्टास्तु
दृ ष्ट्वा गृ ध्रंप्ल वं माः
क्रु र्बु द्धिं दा रौ द्रां
र्वा न्नोक्ष यिष्यति