४.५७.३

वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।
न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे ॥

अन्वयः

तत् that, श्रुण्वन् अपि even after hearing , वृद्धभावात् due to old age, अपक्षत्वात् since I have no wings, मे to me, अद्य now, भ्रातुः brother's, वैरविमोक्षणे to avenge the death, शक्तिः energy, नास्ति हि I do not have.

M N Dutt

On account of my age and want of wings, I, although hearing this, bear it. Nor have I strength to-day to clear scores touching my brother's enmity.

Summary

'Even after I have heard this, I cannot avenge my brother's death as I am old, I have no wings, and I have no energy enough (to fight).

पदच्छेदः

वृद्धभावाद्वृद्ध–भाव (५.१)
अपक्षत्वाच्अपक्ष–त्व (५.१)
छृण्वंस्शृण्वत् (√श्रु + शतृ, १.१)
तद्तद् (२.१)
अपिअपि (अव्ययः)
मर्षयेमर्षये (√मर्षय् लट् उ.पु. )
(अव्ययः)
हिहि (अव्ययः)
मेमद् (६.१)
शक्तिर्शक्ति (१.१)
अद्यास्तिअद्य (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
भ्रातुर्भ्रातृ (६.१)
वैरविमोक्षणेवैर–विमोक्षण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वृद्ध भा वा क्ष त्वा
च्छृ ण्वंस्तपिर्ष ये
हि मेक्ति द्यास्ति
भ्रा तु र्वैवि मोक्ष णे