४.५८.११

स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः ।
क्षुत्पिपासा परीतेन कुमारः पततां वरः ॥

पदच्छेदः

तद् (१.१)
मयामद् (३.१)
वृद्धभावाच्चवृद्ध–भाव (५.१)–च (अव्ययः)
कोपाच्चकोप (५.१)–च (अव्ययः)
परिभर्त्सितःपरिभर्त्सित (√परि-भर्त्सय् + क्त, १.१)
क्षुत्पिपासापरीतेनक्षुध्–पिपासा–परीत (√परि-इ + क्त, ३.१)
कुमारःकुमार (१.१)
पततांपतत् (√पत् + शतृ, ६.३)
वरःवर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या वृद्ध भा वाच्च
को पाच्चरिर्त्सि तः
क्षुत्पि पा सा री ते
कु मा रः तां रः