४.५८.२६

ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः ।
सहिताः कपिराजेन देवैरपि दुरासदाः ॥

अन्वयः

ते those of you, मतिश्रेष्ठाः very wise, मनस्विनः sensitive , बलवन्त: strong, देवैरपि even by gods, दुरासदाः unapproachable, भवन्तः you are, कपिराजेन by king of monkeys, प्रेषिताः sent.

M N Dutt

You, foremost in intelligence, strong, intellectual, and incapable of being overcome by the gods themselves, have been despatched by the monarch of monkeys.

Summary

'Indeed, you monkeys are very wise, strong and sensitive. The king of monkeys has sent you on this mission. You cannot be conquered even by gods.

पदच्छेदः

तेतद् (१.३)
भवन्तोभवत् (१.३)
मतिश्रेष्ठामति–श्रेष्ठ (१.३)
बलवन्तोबलवत् (१.३)
मनस्विनःमनस्विन् (१.३)
सहिताःसहित (१.३)
कपिराजेनकपि–राज (३.१)
देवैर्देव (३.३)
अपिअपि (अव्ययः)
दुरासदाःदुरासद (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते न्तो ति श्रे ष्ठा
न्तोस्वि नः
हि ताःपि रा जे
दे वैपिदु रा दाः