४.५९.१२

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः ।
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ॥

अन्वयः

तस्य of that, आश्रमपदाभ्याशे in the vicinity of that hermitage, सुगन्धिनः fragrant, वाताः breeze, ववुः blew, अपुष्पितः without flowers, वृक्षः trees, कश्चित् any one, न विद्यते not seen, अफलो वा without fruits, न not.

M N Dutt

A fragrant breeze blew about the hermitage; and no tree was found that did not bear flowers and fruits.

Summary

'In the vicinity of that hermitage there was no tree without flowers or fruits and fragrant was the breeze that blew around.

पदच्छेदः

तस्याश्रमपदाभ्याशेतद् (६.१)–आश्रम–पद–अभ्याश (७.१)
ववुर्ववुः (√वा लिट् प्र.पु. बहु.)
वाताःवात (१.३)
सुगन्धिनःसुगन्धिन् (१.३)
वृक्षोवृक्ष (१.१)
नापुष्पितः (अव्ययः)–अपुष्पित (१.१)
कश्चिद्कश्चित् (१.१)
अफलोअफल (१.१)
वावा (अव्ययः)
(अव्ययः)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याश्र दा भ्या शे
वु र्वा ताःसुन्धि नः
वृ क्षो ना पुष्पि तःश्चि
लो वा दृश्य ते