४.५९.४

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने ।
सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥

अन्वयः

पुरा years ago, सूर्यरश्मिभिः by Sun's rays, निर्दग्धः scorched, सूर्यतापपरीताङ्गः limbs burnt by the heat of Sun, अस्य of this, विन्ध्यस्य Vindhya's, शिखरे on the peak, पतितः अस्मि I fell.

M N Dutt

My body being affected by solar heat, and my wings burnt by the rays of the sun, O sinless one, I formerly fell to this summit of Vindhya.

Summary

Scorched by the rays of the Sun, I was burnt totally and fell on the peak of this mount Vindhya years ago.

पदच्छेदः

अस्यइदम् (६.१)
विन्ध्यस्यविन्ध्य (६.१)
शिखरेशिखर (७.१)
पतितोपतित (√पत् + क्त, १.१)
ऽस्मिअस्मि (√अस् लट् उ.पु. )
पुरापुरा (अव्ययः)
वनेवन (७.१)
सूर्यातपपरीताङ्गोसूर्य–आतप–परीत (√परि-इ + क्त)–अङ्ग (१.१)
निर्दग्धःनिर्दग्ध (√निः-दह् + क्त, १.१)
सूर्यरश्मिभिःसूर्य–रश्मि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य वि न्ध्यस्यशि रे
ति तोऽस्मिपु रा ने
सू र्या री ता ङ्गो
नि र्द ग्धः सूर्यश्मि भिः