४.६२.१४

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ।
बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ॥

अन्वयः

हरिशार्दूलाः tigers among monkeys, तस्य his, तत् वचनम् those words, श्रुत्वा after hearing, प्रतिसंहृष्टमानसाः in turn felt very happy, विक्रमाभ्युदयोन्मुखाः hoping success with their valour, बभूवुः became.

M N Dutt

Hearing his words, those powerful monkeys, with vigour (enhanced, seeing success before them, felt the height of joy.

Summary

The tigers among monkeys felt very happy on hearing the words of Sampati and became sure of their success with their valour.

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
प्रीतिसंहृष्टमानसाःप्रीति–संहृष्ट (√सम्-हृष् + क्त)–मानस (१.३)
बभूवुर्बभूवुः (√भू लिट् प्र.पु. बहु.)
हरिशार्दूलाहरि–शार्दूल (१.३)
विक्रमाभ्युदयोन्मुखाःविक्रम–अभ्युदय–उन्मुख (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
प्रीति सं हृष्ट मा साः
भू वुर्हरि शा र्दू ला
विक्र माभ्यु योन्मु खाः