४.६३.२०

यदि कश्चित्समर्थो वः सागरप्लवने हरिः ।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥

अन्वयः

वः among you, कश्चित् any one, हरिः vanara, सागरप्लवने in leaping the ocean, समर्थः यदि if he is capable, सः he, इह here, नः to us, शीघ्रम् quickly, पुण्याम् sacred, अभयदक्षिणाम् a gift of assurance, ददातु can he give?

Summary

'If there is any one among you who is capable of leaping across the ocean he will be giving all of us the sacred gift of life quickly?'

पदच्छेदः

यदियदि (अव्ययः)
कश्चित्कश्चित् (१.१)
समर्थोसमर्थ (१.१)
वःत्वद् (६.३)
सागरप्लवनेसागर–प्लवन (७.१)
हरिःहरि (१.१)
तद् (१.१)
ददात्विहददातु (√दा लोट् प्र.पु. एक.)–इह (अव्ययः)
नःमद् (६.३)
शीघ्रंशीघ्र (२.१)
पुण्याम्पुण्य (२.१)
अभयदक्षिणाम्अभय–दक्षिणा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि श्चित्स र्थो वः
साप्ल ने रिः
दात्वि नः शी घ्रं
पु ण्याक्षि णाम्