४.६३.२१

अङ्गदस्य वचः श्रुत्वा न कश्चित्किंचिदब्रवीत् ।
स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी ॥

अन्वयः

अङ्गदस्य Angada's, वचः words, श्रुत्वा hearing, कश्चित् any one, किञ्चित् even a little, न अब्रवीत् did not speak, तत्र there, सर्वा the entire, सा that, हरिवाहिनी army of monkeys स्तिमिते motionless, अभवत् became.

Summary

After hearing Angada, no one spoke a word. The entire army of monkeys became still and motionless.

पदच्छेदः

अङ्गदस्यअङ्गद (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
(अव्ययः)
कश्चित्कश्चित् (१.१)
किंचिद्कश्चित् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
स्तिमितेवाभवत्स्तिमित (१.१)–इव (अव्ययः)–अभवत् (√भू लङ् प्र.पु. एक.)
सर्वासर्व (१.१)
सातद् (१.१)
तत्रतत्र (अव्ययः)
हरिवाहिनीहरि–वाहिनी (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्गस्य चः श्रु त्वा
श्चि त्किंचिब्र वीत्
स्तिमि ते वा त्स र्वा
सात्ररि वाहि नी