४.६३.५

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले ।
व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥

पदच्छेदः

सत्त्वैर्सत्त्व (३.३)
महद्भिर्महत् (३.३)
विकृतैःविकृत (√वि-कृ + क्त, ३.३)
क्रीडद्भिर्क्रीडत् (√क्रीड् + शतृ, ३.३)
विविधैर्विविध (३.३)
जलेजल (७.१)
व्यात्तास्यैःव्यात्त–आस्य (३.३)
सुमहाकायैर्सु (अव्ययः)–महत्–काय (३.३)
ऊर्मिभिश्चऊर्मि (३.३)–च (अव्ययः)
समाकुलम्समाकुल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त्वैर्म द्भिर्विकृ तैः
क्री द्भिर्विवि धैर्ज ले
व्या त्ता स्यैःसु हा का यै
रूर्मि भिश्च माकु लम्