४.६४.११

पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥

अन्वयः

पूर्वम् earlier, अस्माकमपि even I also, कश्चित् some, गतिपराक्रमः very courageous, आसीत् had , ते वयम् for me, साम्प्रतम् attained, वयसः (old) age, पारम् fag end of life, अनुप्राप्ताः स्म have reached.

Summary

'Earlier I was also very courageous, but now I have become old and reached the fag end of life.

पदच्छेदः

पूर्वम्पूर्वम् (अव्ययः)
अस्माकम्मद् (६.३)
अप्यासीत्अपि (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
कश्चिद्कश्चित् (१.१)
गतिपराक्रमःगति–पराक्रम (१.१)
तेतद् (१.३)
वयंमद् (१.३)
वयसःवयस् (६.१)
पारम्पार (२.१)
अनुप्राप्ताःअनुप्राप्त (√अनुप्र-आप् + क्त, १.३)
स्मस्म (अव्ययः)
साम्प्रतम्सांप्रतम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पूर्व स्मा प्या सी
त्क श्चिद्गति राक्र मः
ते यं सः पा
नु प्रा प्ताःस्म साम्प्र तम्