४.६४.१९

अहमेतद्गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम् ॥

अन्वयः

अहम् I, महत् great, एतत् this, योजनानाम् of yojanas, शतम् hundred, गमिष्यामि I can go, निवर्तने to return, मे my, शक्तिः capacity, स्यात् may be, न वा or not, इति thus, निश्चितम् certainly, न not known.

M N Dutt

I can go over this mighty hundred Yojanas; but there is no certainty as to my answer of returning.

Summary

'I can certainly go to a distance of a hundred yojanas. However, I cannot say whether I will have enough capacity to return?

पदच्छेदः

अहम्मद् (१.१)
एतद्एतद् (२.१)
गमिष्यामिगमिष्यामि (√गम् लृट् उ.पु. )
योजनानांयोजन (६.३)
शतंशत (२.१)
महत्महत् (२.१)
निवर्तनेनिवर्तन (७.१)
तुतु (अव्ययः)
मेमद् (६.१)
शक्तिःशक्ति (१.१)
स्यान्नस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–न (अव्ययः)
वेतिवा (अव्ययः)–इति (अव्ययः)
(अव्ययः)
निश्चितम्निश्चित (√निः-चि + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेद्ग मि ष्यामि
यो ना नां तं हत्
निर्त नेतु मे क्तिः
स्यान्न वेति निश्चि तम्