४.६४.३३

सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥

अन्वयः

अङ्गदेन by Angada, तदा then, प्रत्युक्तः having been addressed, वीरः hero, प्लवगर्षभः bull among monkeys, सः जाम्बवान् that Jambavan, ततः then, अङ्गदम् to Angada, उत्तरम् reply, इदं वाक्यम् in these words, प्रोवाच said.

M N Dutt

Thus addressed by Angada that powerful and heroic monkey Jāmbavān answered Angada in excellent words, saying,

Summary

On listening to Angada's words, Jambavan, the bull among monkeys, replied this way:

पदच्छेदः

सोतद् (१.१)
ऽङ्गदेनअङ्गद (३.१)
तदातदा (अव्ययः)
वीरःवीर (१.१)
प्रत्युक्तःप्रत्युक्त (√प्रति-वच् + क्त, १.१)
प्लवगर्षभःप्लवग–ऋषभ (१.१)
जाम्बवान्जाम्बवन्त् (१.१)
उत्तरंउत्तर (२.१)
वाक्यंवाक्य (२.१)
प्रोवाचेदंप्रोवाच (√प्र-वच् लिट् प्र.पु. एक.)–इदम् (२.१)
ततोततस् (अव्ययः)
ऽङ्गदम्अङ्गद (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सोऽङ्ग दे दा वी रः
प्र त्यु क्तःप्लर्ष भः
जाम्ब वा नुत्त रं वा क्यं
प्रो वा चे दं तोऽङ्ग दम्