४.६४.३५

ततः प्रतीतं प्लवतां वरिष्ठ;मेकान्तमाश्रित्य सुखोपविष्टम् ।
संचोदयामास हरिप्रवीरो; हरिप्रवीरं हनुमन्तमेव ॥

M N Dutt

Then that heroic monkey ordered foremost of monkeys, the highly heroic monkey Hanuman who stood apart, convinced (of the wisdom of Jambavān decision).

पदच्छेदः

ततःततस् (अव्ययः)
प्रतीतंप्रतीत (√प्रति-इ + क्त, २.१)
प्लवतांप्लवत् (√प्लु + शतृ, ६.३)
वरिष्ठम्वरिष्ठ (२.१)
एकान्तम्एकान्त (२.१)
आश्रित्यआश्रित्य (√आ-श्रि + ल्यप्)
सुखोपविष्टम्सुख–उपविष्ट (√उप-विश् + क्त, २.१)
संचोदयामाससंचोदयामास (√सम्-चोदय् प्र.पु. एक.)
हरिप्रवीरोहरि–प्रवीर (१.१)
हरिप्रवीरंहरि–प्रवीर (२.१)
हनुमन्तम्हनुमन्त् (२.१)
एवएव (अव्ययः)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तःप्र ती तंप्ल तां रिष्ठ
मे कान्त मा श्रित्यसु खो वि ष्टम्
सं चो या मा रिप्र वी रो
रिप्र वी रंनुन्त मे