४.६५.१९

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम् ॥

अन्वयः

ततः then, बालः a boy, त्वम् you, महावने in the deep forest, अभ्युत्थितम् rising, सूर्यम् Sun, दृष्ट्वा after seeing, फलं चेति treating it to be, जिघृक्षुः wished to seize, उत्प्लुत्य having jumped, दिवम् to sky, अभ्युद्गतः went flying.

M N Dutt

In that mighty forest, you, a child, desirous of eating, seeing the sun risen, and taking on to be a fruit, sprang up and leaped into the sky.

Summary

'On seeing the rising Sun in the deep forest, mistaking him to be a fruit, you wanted to seize it, when you were young.You suddenly flew into the sky and went flying towards the Sun.

पदच्छेदः

अभ्युत्थितंअभ्युत्थित (√अभ्युत्-स्था + क्त, २.१)
ततःततस् (अव्ययः)
सूर्यंसूर्य (२.१)
बालोबाल (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
महावनेमहत्–वन (७.१)
फलंफल (२.१)
चेति (अव्ययः)–इति (अव्ययः)
जिघृक्षुस्त्वम्जिघृक्षु (१.१)–त्वद् (१.१)
उत्प्लुत्याभ्यपतोउत्प्लुत्य (√उत्-प्लु + ल्यप्)–अभ्यपतः (√अभि-पत् लङ् म.पु. )
दिवम्दिव् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्युत्थि तं तः सू र्यं
बा लो दृ ष्ट्वा हा ने
लं चेतिजि घृ क्षुस्त्व
मु त्प्लु त्याभ्य तोदि वम्