४.६५.२४

संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति ।
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥

अन्वयः

त्रैलोक्ये in all the three worlds, क्षुभिते सति disturbed, भुवनेश्वराः all lords of the world, सर्वे all, सुराः Gods, संभ्रान्ताः became uneasy, संक्रुद्धम् angry, मारुतम् Maruta, प्रसादयन्ति propitiated.

M N Dutt

Thereat, all gods-lords of the universeinfluenced by fear in consequence of the triune world waxing agitated, began to path the wrathful Wind.

पदच्छेदः

संभ्रान्ताश्चसंभ्रान्त (√सम्-भ्रम् + क्त, १.३)–च (अव्ययः)
सुराःसुर (१.३)
सर्वेसर्व (१.३)
त्रैलोक्येत्रैलोक्य (७.१)
क्षुभितेक्षुभित (√क्षुभ् + क्त, ७.१)
सतिसत् (√अस् + शतृ, ७.१)
प्रसादयन्तिप्रसादयन्ति (√प्र-सादय् लट् प्र.पु. बहु.)
संक्रुद्धंसंक्रुद्ध (√सम्-क्रुध् + क्त, २.१)
मारुतंमारुत (२.१)
भुवनेश्वराःभुवन–ईश्वर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं भ्रा न्ताश्चसु राः र्वे
त्रै लो क्येक्षुभि तेति
प्र सान्ति सं क्रु द्धं
मारु तंभु नेश्व राः