४.६६.१५

पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः ।
हरिष्ये चोरुवेगेन प्लवमानो महार्णवम् ॥

अन्वयः

प्लवङ्गमाः O monkeys, प्लवमानः while I leap, पर्वतान् mountains, चूर्णयिष्यामि can crush them to powder, प्लवमानः when I leap, ऊरुवेगेन with the force of my thighs, महार्णवम् vast ocean, हरिष्यामि can pull with me.

Summary

'O monkeys when I leap, I can crush the mountains into powder and pull the vast ocean with me with the force of my thighs.

पदच्छेदः

पर्वतान्पर्वत (२.३)
कम्पयिष्यामिकम्पयिष्यामि (√कम्पय् लृट् उ.पु. )
प्लवमानःप्लवमान (√प्लु + शानच्, १.१)
प्लवंगमाःप्लवंगम (८.३)
हरिष्येहरिष्ये (√हृ लृट् उ.पु. )
चोरुवेगेन (अव्ययः)–ऊरु–वेग (३.१)
प्लवमानोप्लवमान (√प्लु + शानच्, १.१)
महार्णवम्महत्–अर्णव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व ता न्कम्प यि ष्यामि
प्ल मा नःप्ल वं माः
रि ष्ये चोरु वे गे
प्ल मा नो हार्ण वम्